पञ्चदशः पाठः - अलङ्काराः-Notes.

पञ्चदशः पाठः - अलङ्काराः

 

१.अलङ्कारं विवृणुत :

१. श्रीरामः समुद्र इव गम्भीरः । 
अलङ्कारस्य नाम   –   उपमा।                    

उत्तरम् -- लक्षणम् –   उपमा यत्र सादृश्यलक्ष्मीः उल्लसति द्वयोः । समन्वयः – उपमानम् – समुद्रः । उपमेयम् - श्रीरामः । साधारणधर्मः – गाम्भीर्यम् । उपमावाचकः - इव ।

२. कमलमिव चारु वदनम् । 
उत्तरम्  - अलङ्कारस्य नाम – उपमा। लक्षणम् - उपमा यत्र सादृश्यलक्ष्मीः उल्लसति द्वयोः ।

समन्वयः – उपमानम् – कमलम् । उपमेयम् वदनम् । साधारणधर्मः - चारुत्वम् ।  उपमावाचकः - इव ।

३. सौजन्यमेव सुवर्णम् । 
उत्तरम्  - अलङ्कारस्य नाम – रूपकम् ।     लक्षणम् – उपमान-उपमेययोः अभेदः रूपकम् । 
समन्वयः – अस्मिन् उदाहरणे उपमान-उपमेययोः सुवर्ण-सौजन्ययोः अभेदः वर्णितः ।

४. ज्ञानामृतं पीत्वा तुष्टः । 
उत्तरम्  - अलङ्कारस्य नाम – रूपकम् ।     लक्षणम् – उपमान-उपमेययोः अभेदः रूपकम् । 
समन्वयः – अस्मिन् उदाहरणे उपमान-उपमेययोः ज्ञान अमृतयोः अभेदः वर्णितः ।

५. माघे मेघे गतं वयः । 
उत्तरम्  - अलङ्कारस्य नाम – श्लेषः ।      लक्षणम् – अनेकार्थशब्दविन्यासः श्लेषः ।

समन्वयः - अत्र माघमासे मेघमध्ये पक्षी गतः इत्येकः अर्थः ।

तथा माघकाव्यस्य मेघदूतकाव्यस्य पठने आयुरेव गतम् इति द्वितीयः अर्थः ।

६. सैन्धवमानय। 
उत्तरम्  - अलङ्कारस्य नाम – श्लेषः । लक्षणम् – अनेकार्थशब्दविन्यासः श्लेषः ।

 समन्वयः - अत्र सैन्धवम” इति शब्दस्य अश्वःइत्येकः अर्थः । तथा लवणम्इति द्वितीयः अर्थः ।



Last modified: Thursday, 17 June 2021, 11:33 PM