NOTES
एकादशः - समासः
एकादशः - समासः
१. एतेषां विग्रहवाक्यं विलिख्य समासनाम लिखत ।
१. त्रिभुवनम् = त्रयाणां भुवनानां समाहारः - द्विगुसमासः
२. अष्टाध्यायी = अष्टानां अध्यायानां समाहारः - द्विगुसमासः
३. कृष्णसर्पः = कृष्णश्च असौ सर्पश्च – कर्मधारयसमासः ।
४. नरसिंहः = नर:सिंहःइव - कर्मधारयसमासः ।
५. गङ्गानदी = गङ्गा इति नदी - कर्मधारयसमासः ।
२. एतेषां समस्तपदं विलिख्य समासनाम लिखत ।
१. नीलं च तत् उत्पलं च = नीलोत्पलम्- कर्मधारयसमासः ।
२. कैलास इति पर्वतः = कैलासपर्वतः- कर्मधारयसमासः ।
३. मेघः इव श्यामः = मेघश्यामः- कर्मधारयसमासः ।
३. रिक्तस्थानं पूरयत ।
१. उत्तरपदार्थप्रधानः ............................... समासः। = तत्पुरुष
२. पूर्वपदार्थप्रधानः ............................ समासः । = अव्ययीभाव
३. अन्यपदार्थप्रधानः .......... समासः । = बहुव्रीहि
४. संख्यापूर्वः .......... समासः । = द्विगु
५. उभयपदार्थप्रधान: ........... समासः । = द्वन्द्व