NOTES
अष्टमः पाठः-विस्मृतभेदाः सन्तः
अष्टमः पाठः-विस्मृतभेदाः सन्तः
1) एकवाक्येन उत्तरं लिखत ।
१. सर्वेषां ऐक्यं केषां वाञ्छा भवति ? = सर्वेषां ऐक्यं पूर्वजमुनिजन-कविजनानां वाञ्छा भवति।
२. हृदये कः विभेदः न भवेत् ? = हृदये भाषा-धन-मत-जाति विभेदः न भवेत॥
३. किं किं प्रलयं संयातु इति कवेः आशयः ? = घर्षण-लुण्ठन-वञ्चन-हननं प्रलयं संयातु इति कवेः आशयः।
४. हृदये कीदृशः भाव: लसेत् ? = हृदये सहोदरभाव: लसेत्
५. किमर्थं हस्तः प्रसरणीयः ? = दुःखितदीनजनान् उन्नेतुं हस्तः प्रसरणीयः
2) रिक्तस्थानं पूरयत ।
१. सुखिनस्सर्वे सन्त्विति गानं तेषां -------------- = बहुहृद्यम्
२. सुवर्णपुष्पां ---------- क्रष्ठुम् आयान्तु । = पृथिवीमेतां
३. अनिलः सलिलम् अनलः सर्वं सर्वेषाम् --------- = एकम्
3) लिङ्गविभक्तिवचनानि लिखत
१. वाञ्छा = स्त्रीलिङ्गः प्रथमाविभक्तिः एकवचनम्
२. सुखिनः = पुंलिङ्गः प्रथमाविभक्तिः बहुवचनम्
३. तेषाम् = पुंलिङ्गः षष्ठीविभक्तिः बहुवचनम्
४. मातुः = स्त्रीलिङ्गः षष्ठीविभक्तिः एकवचनम्
4) लकारपुरुषवचनानि लिखत ।
१. कुर्वन्तु = लोट् लकारः प्रथमपुरुषः बहुवचनम्
२. प्रदहति = लट् लकारः प्रथमपुरुषः एकवचनम्
३. जहतु = लोट् लकारः प्रथमपुरुषः बहुवचनम्
5) वाक्ये योजयत
१. मत्वा = अहम् उत्तरं मत्वा वदामि।
२. हृदये = सर्वेषां हृदये देवः अस्ति ।
३. सततम् = सैनिकाः सततं देशस्य रक्षणं कुर्वन्ति ।
४. मा = असत्यं मा वदतु ।
6) पर्यायपदानि लिखत ।
१. धनम् = वित्तम् २. हस्तः = करः
३. अनिलः = वायुः ४. अनल: = अग्निः
7) सन्धिं विभज्य नाम लिखत ।
१. सन्त्विति = सन्तु + इति = यण् सन्धिः
२. आलस्यं हित्वा = आलस्यम् + हित्वा = अनुस्वारसन्धिः
३. भावापन्नाः = भाव + आपन्नाः = सवर्णदीर्घसन्धिः
8) विरुद्धार्थकपदानि लिखत ।
१. भेदः × अभेदः २. स्मरणम् × विस्मरणम्
३. ऐक्यम् × अनैक्यम् ४. निर्मलम् × अनिर्मलम्
9) अन्यलिङ्गपदानि लिखत ।
१. माता - पिता २. सर्वे - सर्वाः
३. पूर्वजः - पूर्वजा